(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.88. अध्यायः 088
Mahabharata - Bhishma Parva - Chapter Topics
भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-88-0x(4167)(42614)
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः।
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ 6-88-1(42615)
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्।
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ 6-88-2(42616)
स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् ।
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ 6-88-3(42617)
ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह।
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ 6-88-4(42618)
स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि ।
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥ 6-88-5(42619)
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव।
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ 6-88-6(42620)
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् ।
अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ॥ 6-88-7(42621)
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशांपते।
अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ॥ 6-88-8(42622)
स हि भीष्मं समासाद्य छादयामास सायकैः ।
ततो निष्टानको घोरो भीष्मभीमसमागमे ॥ 6-88-9(42623)
बभूव सर्वसैन्यानां घोररूपो भयानकः ।
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ 6-88-10(42624)
ततो दुर्योधनो राजा सोदर्यैः परिवारितः।
भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ 6-88-11(42625)
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः।
प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥ 6-88-12(42626)
सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत ।
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ 6-88-13(42627)
हते तस्मिन्महाराज तव पुत्रे महारथे ।
नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ॥ 6-88-14(42628)
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ 6-88-15(42629)
पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः ।
अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥ 6-88-16(42630)
महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।
नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा ॥ 6-88-17(42631)
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।
नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥ 6-88-18(42632)
अपराजितो महाराज पराजिष्णुर्महारथम् ।
शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥ 6-88-19(42633)
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्।
स तं न ममृषे भीमः शत्रुभिर्वधमाहवे॥ 6-88-20(42634)
धनुः प्रपीड्य वामेन करेणामित्रकर्सनः ।
शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥ 6-88-21(42635)
अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।
पराजितस्य भीमेन कृत्तं गामपतच्छिरः ॥ 6-88-22(42636)
अथापरेण भल्लेन कुण्डधारं महारथम् ।
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ 6-88-23(42637)
ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् ।
प्रेषयामास समरे पण्डितं प्रति भारत॥ 6-88-24(42638)
स शरः पण्डितं हत्वा विवेश धरणीतलम् ।
यथा नरं निहत्याशु भुजगः कालचोदितः ॥ 6-88-25(42639)
विशालाक्षशिरश्छित्त्वा पातयामास भूतले।
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ 6-88-26(42640)
महोदरं महेष्वासं नाराचेन स्तनान्तरे ।
विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ 6-88-27(42641)
आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे ।
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥ 6-88-28(42642)
बह्वाशिनं तत भीमः शरेणानतर्वणा ।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ 6-88-29(42643)
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते ।
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ 6-88-30(42644)
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः।
अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ॥ 6-88-31(42645)
एवमेते महेष्वासाः पुत्रास्त्व विशांपते ।
भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ॥ 6-88-32(42646)
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ 6-88-33(42647)
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप।
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥ 6-88-34(42648)
तथैव च वधार्थाय पुत्राणां पाण्डवो बली।
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ 6-88-35(42649)
ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे।
दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ॥ 6-88-36(42650)
निहता भ्रातरः शूरा भीमसेनेन मे युधि।
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ 6-88-37(42651)
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते।
सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥ 6-88-38(42652)
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव।
दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ॥ 6-88-39(42653)
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ 6-88-40(42654)
समयश्च मया पूर्वं कृतो वै शत्रुकर्शन ।
नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना ॥ 6-88-41(42655)
यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे।
हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥ 6-88-42(42656)
स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् ।
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ 6-88-43(42657)
न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।
तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥ ॥ 6-88-44(42658)

इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.